________________
+
समाविशतकम्
1
न तदस्तीन्द्रियार्थेषु यत्क्षेमङ्करमात्मनः । तथाऽपि रमते बाल, स्तत्रैवाज्ञानभावनात् ||२५|| चिरं सुषुप्तस्तमसि मूढात्मानः कुयोनिषु । अनात्मीयात्मभूतेषु ममाहमिति जाग्रति || ४६ || पश्येनिरन्तरं देह-मात्मनोऽनात्मचेतसा । अपरात्मधियाऽन्येषा - मात्मतत्त्वे व्यवस्थितः ।। ५७ ।। अज्ञापितं न जानन्ति यथा मां शापितं तथा । मूढात्मानस्ततस्तेषां वृथा मे झापनश्रमः || १८ || यद् बोधयितुमिच्छामि तन्नाहं हं । ग्राह्य तदपि नान्यस्य तत्किमन्यस्य बोधये ।।५९ || बहिस्तुष्यति मूढात्मा, पिहितज्योतिरन्तरे । तुष्यत्यन्तः प्रबुद्धात्मा, बहिर्व्यावृत्तकौतुकः || ६० ॥ न जानन्ति शरीराणि, सुखदुःखान्यबुद्धयः । निग्रहानुग्रह धियं तथाप्यत्रैव कुर्वते ।। ६१ ।। स्वबुद्धया यावद् गृह्णीयात् कायवाक्चेतसां त्रयम् । संसारस्तावदेतेषां भेदाभ्यासे तु निर्वृतिः ||६२ || घने वस्त्रे यथाऽऽत्मानं, न वनं मन्यते तथा । घने स्वदेहेष्यात्मानं न धनं मन्यते बुधः || ६३ ॥ जीर्णे वस्त्रे यथाऽऽत्मानं न जीर्णं मन्यते तथा । जीर्णे स्वदेहेऽप्यात्यात्मानं, न जीणं मन्यते बुधः ।। ६४ ।।
'
.
२३५