________________
समाधिशतकम्
२२३
रागद्वषादिकल्लोले-रलोलं यन्मनो जलम् । स पश्यत्यात्मानस्तत्वं, तत्तत्त्वं नेतरो जनः ॥३५।। अविक्षिप्त मनस्तत्वं, विक्षिप्तं भ्रान्तिरात्मनः । धारयेत् तदविक्षिप्त, विक्षिप्त नाश्रयेततः ३६|| अविद्याभ्याससंस्कार-रवशं विध्यते मनः । तदेव ज्ञानसंस्कारः, स्वतस्तत्त्वेऽचतिष्ठते ।।३७॥ अपमानादयस्तस्य, विक्षेपो यस्य चेतसः । नापमानादयस्तस्य, न क्षेपो यस्य चेतसः ।।३८|| यदा मोहाद प्रजायते, रामद्व पौ तपस्विनः । तदेव भावयेत् स्वस्थ-मात्मानं शाम्यतः क्षणात् ।।३९|| यत्र काये मुनेः प्रेम, ततः प्रच्याव्य देहिनम् । बुद्धया तदुत्तमे काये, योजयेत् मम नश्यति ॥४०॥ आत्म विभ्रमजं दुःख-मात्मज्ञानात् प्रशाम्यति । नायतास्तत्र निर्वान्ति, कृत्वाऽपि परमं तपः ||४|| शुभं शरीरं दिव्यांश्च, विषयानभिवाञ्छति । उत्पन्नात्ममतिदेहे, तत्त्वज्ञानी ततश्च्युतिम् ||४२।। परत्राहम्मतिः स्वस्मात् च्युतो बध्नात्यसंशयम् । स्वस्मिन्नहम्मतिश्च्यु त्वा, परस्मान्मच्यते बुधः ।।४३।। दृश्यमानमिदं मूढः त्रिलिङ्गमवबुध्यते । इदमित्यवबुद्धस्तु, निष्पन्न शब्दवर्जितम् ||४४||