________________
२३०
समाधिशतकम् बहिरात्मा शरीरादौ जातात्मभ्रान्तिरान्तरः । चित्तदोषात्मविभ्रान्तिः परमात्माऽतिनिर्मलः ||५ निर्मलः केवल: शुद्धो, विविक्तः प्रभुरव्ययः । परमेष्ठी परात्मेति, परमात्मेश्वरो जिनः ।।६।। बहिरास्मेन्द्रियद्वार-रात्मज्ञानपराङ्मुखः । म्फुरितं स्वात्मनो देह-मात्मत्वेनाध्यवस्यति ।।७।। नरदेहस्थमात्मान-मविद्वान् मन्यते नरम् । तिर्यञ्चं तियगङ्गस्थं, सुराङ्गस्थ सुरं तथा ॥८|| नारकं नारकाङ्गस्थ, न स्वयं तत्त्वतस्तथा । अनन्ताजन्तवीराशि, स्वसंवाऽचलास्थितिः । स्वदेहसदृशं, दृष्ट्या , परदेहमचेतनम् । परात्माधिष्ठितं मूढः, परत्वेनाध्यवस्यति ।।१०।। स्वपराध्यवसायेन, देहेष्वविदितात्मनाम् । वर्तते विभ्रमः पुंसां, पुत्रभार्यादिगोचरः ॥११॥ अविद्यासंज्ञितस्तस्मात्, संस्कारो जायते दृढः । येन लोकोऽङ्गमेव स्ल, पुनरप्यभिमन्यते ॥१२॥ देहे स्वबुद्धिरामानं, युनक्त्येतेन निश्चयात् । स्वात्मन्येवात्मधीस्तस्माद, वियोजयति देहिन ।।१३।। देहेम्वात्मधिया जाताः, पुत्रभार्यादिकल्पनाः । सम्पत्तिमात्मनस्तामि-मन्यत हा ! इतं जगत ।।१४।।