________________
२२
इष्टोपदेशः इच्छत्येकान्तसंवासं. निर्जन जनितादरः । निजकार्यवशात् किञ्चिदुक्त्वा विस्मरति द्रुतं ।।४।। अ वन्नपि हि न बते, गन्नपि न पहाति । स्थिरीकृतात्मतत्त्वस्तु, पश्यन्नपि न पश्यति ।।४१।। किमिदं कीदृशं कस्य, कस्मात् क्वेत्यविशेषयन् । स्वदेहमपि नावैति, योगी योगपरायणः ॥४२।। . यो यत्र निवसमास्ते, स तत्र कुरुते रति । .. यो यन्त्र रमते तस्मा-दन्यत्र स न गच्छति ॥४३|| आगचस्तद्विशेषाणा-मनभिज्ञश्च जायते । . . . अज्ञाततद्विशेषस्तु, बद्धयते न विमुच्यते ।।४४|| परः परस्ततो दुःख-मात्मैवात्मा ततः सुखं । अत एव महात्मानः तनिमित्तं कृतोद्यमाः ||४|| अविद्वान् पुद्गलद्रव्यं, योऽमिनन्दति तस्य तत् । न जातु जन्तोः सामीप्यं, चतुर्गतिषु मुञ्चति ॥४६॥ आत्मानुष्ठाननिष्ठस्य, व्यवहारबहिःस्थितः । जायते परमानन्दः, कश्चियोगेन योगिनः ॥४७|| आनन्दो निर्दहयुद्धं, कर्मेन्धनमनारतं । न चासो खिद्यते योगी, वहिदुःखेष्वचेतनः ।।४८॥ अविद्याभिदुरं ज्योतिः, परं ज्ञानमयं महत् । तत्प्रष्टव्यं तदेष्टव्यं, तद्रष्टव्यं मुमुक्षुभिः ।।४९।