________________
२२६
इष्टोपदेशः
इतरिचन्तामणिर्दिव्य, इतः पिण्याकखण्डकं । ध्यानेन येभे लभ्य, धाद्रियन्ती विकिनः ।।५।। स्वसंवेदनसुव्यक्तः, तनुमात्रो निरत्ययः । अत्यन्तसौख्यत्रानात्मा, लोकालोकविलोकनः ।।२१।। संयम्य करणग्राम एकाग्रत्वेन घेतसः । आत्मानमात्मवान् ध्यायेद्आत्मनवात्मनि स्थितम् ।।२।। अज्ञानोपास्तिरज्ञानं, ज्ञानं ज्ञानिसमाश्रयः। ददाति यत्त यस्याऽस्ति, सुप्रसिद्धमिदं वचः ।।२३।। यरीपहाविज्ञाना-दात्रवस्य निरोधिनी । जायतेऽध्यात्मयोगेन, कर्मणामाशु निर्जरा ॥२४॥ कटस्य काहमिति, सम्बन्धः स्याद् द्वयोर्द्वयोः । ध्यानं ध्येयं यदात्मैव, सम्बन्धः कीदृशस्तदा ।।२५।। बध्यते मुच्यते जीवः, सममो निर्ममः क्रमात् । तस्मात् सर्वप्रयत्नेन, निर्ममत्वं विचिन्तयेत् ॥२६।। एकोऽहं निर्ममः शुद्धो, ज्ञानी योगीन्द्रगोचरः । बाह्याः संयोगजा भावा, मत्तः सर्वेऽपि सर्वथा ।।२७।। दुःखसन्दोहभागित्वं, संयोगादिह देहिनां । स्यजाम्येनं ततः सर्वं, मनोवाकायकर्मभिः ||२८|| न में मृत्युः कुतो भीतिः न मे व्याधिः कुतो व्यथा । नाहं बालो न वृद्धोऽहं, न युवैतानि पुद्गले ॥२९॥