________________
श्रीमद्भट्टा कल देव विरचितं स्वरूप सम्बोधनम् २२३
ततस्त्वं दोषनिर्मुक्त्यै, निर्मोहो भत्र सर्वतः । उदासीत्य वरिपरी ||१८|| हेयोपादेयत्वस्य स्थिति विज्ञाय यतः । निरालम्बो भवान्यस्मा - दुषेये सावलम्बनः ॥१९॥
1
1
स्व परं चेति वस्तु त्वं वस्तुरूपेण भावय । उपेक्षाभावनोत्कर्ष - पर्यन्ते शिवमाप्नुहि ॥ २० ॥
।
मोक्षेऽपि यस्य नाकाङ्क्षा, न मोक्षमधिगच्छति । इत्युक्तत्वाद्धितान्वेषी, काङ्क्षां न क्वापि योजयेत् ||२१||
1
3
साऽपि च स्वात्मनिष्ठत्वात्, सुलभा यदि चिन्त्यते । आत्माधीने सुखे तात ! यत्नं किं न करिष्यसि ||२२|| स्वं परं विद्धि तत्राऽपि व्यामोहं छिन्धि किन्त्वमम् 1 अनाकुलस्वसंवेद्ये, स्वरूपे तिष्ठ केवले ||२३||
स्वं स्वेन स्थितं स्त्रस्मै, स्वस्मात् स्वस्याविनश्वरम् । स्वस्मिन् ध्यात्वा लभेत स्वोस्थ - मानन्दममृतं पदम् ||२४||
इति स्वतत्त्वं परिभाव्य वाङ्मयम् । य एतदाख्याति शृणोति चादरात् ॥ करोति तस्मै परमार्थसम्पदम् । स्वरूपसम्बोधनपञ्चविंशतिः ||२५| इति श्रीमदभट्टालदेवविरचितं स्वरूपसम्बोधनम् ।