________________
श्रीमद्भट्टाकलङ्कदेवविरचितं स्वरूपसम्बोधनम् २२१ इत्थं श्रीजिनमङ्गलाष्टकमिदं श्रीमूलसफेऽनघे । विद्वद्भिरपिसिंहनन्दिमुनिमि भक्त्या सदा भाषितम् ।। नित्यं ये च पठन्ति निमलधियः संप्राप्य सत्सम्पदाम् । सौख्यं सारतरं भजन्ति नितरां श्रीनेमिदत्तस्तुतम् ||९||
इति मङ्गलाष्टकम् श्रीमद्भट्टाकलकदेवविरचितं स्वरूपसम्बोधनम् मुक्तामुक्तकरूपो यः, कर्मभिः संविदादिना । अक्षयं परमात्मानं, ज्ञानमूर्ति नमामि तम् ।।१।। सोऽस्त्यात्मा सोपयोगोऽयं, क्रमाद्धेतुफलावहः । यो ग्राह्योऽग्राह्यनाद्यन्तः, स्थित्युत्पत्तिव्ययात्मकः ।।२।। प्रमेयत्वादिभिर्ध मैंरचिदात्मा चिदात्मकः । ज्ञानदर्शनतस्तस्माच्चेतनाचेतनात्मका ॥३॥ झानाद्धिमो न चाभिन्नो, भिन्नाभिन्नः कथञ्चन । ज्ञानं पूर्वापरीभृतं, सोऽयमात्मेति कीर्तितः॥४|| स्वदेहमितश्चायं , ज्ञानमात्रोऽपि नैव सः । ततः सवंगत श्चाऽयं, विश्वव्यापी न सर्वथा ॥शा नानाज्ञानस्वभावत्वा-देकोऽनेकोऽपि नैव सः ॥ चेतने कस्वभावत्वा-देकानेकात्मको भवेत् ॥६॥ नावक्तव्यः स्वरूपायनिर्वाच्यः परभावतः । तस्मान्नकान्ततो वाच्यो, नाऽपि वाचामगोचरः ॥७॥