________________
संस्तरारोहणनक्षत्रफलम्
यातस्य संस्तरं येन अपकस्य सुचेतसः । नक्षत्रेण यदायुः स्यात्चत्प्रवक्ष्यामि सांप्रतम् ।।२।। यदा चारित्रनिनक्षत्रे क्षपको लाति संस्तरम् । तदा हि स्वातिनक्षत्रे नक्तं कालं करोति सः ।।३।। भाभे प्रगृहाति लपकसंस्तरं यदि । कालं करोनि रेवत्या प्रदोषेऽसौ समाधिना ||४|| संस्तरं यदि गहाति कृतिकायां विशुद्धधीः । उत्तराफाल्गुनिभं च मध्याह्वे मरणं ब्रजेत् ||५|| क्षपकः संस्तरं लाति रोहिण्यां यदि शुद्धधीः । कालं श्रवणनक्षत्रे निशीथे विदधाति सः ॥६॥ मृगादिशिरमा भेन अपकः संस्तरं श्रितः । पूर्वफाल्गुनिनक्षत्रे ततः कालं करोति सः ||१|| आद्रायां यदि नक्षत्रे अपकः संस्तरं व्रजेत् | ततस्तहि वसे सोऽयं कालं कुर्यात समाधिना ||८|| अथवा तद्दिने कालं कदाचिन काचिद्भजेत् । क्षपका शुद्धचेतस्कः प्रभाते विदधाति सः ।।९।। पुनर्वसुनि नक्षत्रे लाति संस्तरकं यदि । अपराह ततोऽश्विन्यां भपकः कुरुते मृतिम् ।।१०।। आपकः पुष्य नक्षत्रे लाति संस्तरकं यदि । मृगादिशिरसा कालं नक्षत्रेण करोत्ययम् ॥११॥