________________
संस्तरारोहणनक्षत्रफलम्
२०६ मृत्युकाले सतां दुःखं, यद्भवेद्वयाधिसम्भवम् । देहमोहविनाशाय, मन्ये शिवसुखाय च ।।१२।। शानिनोऽमृतसङ्गाय, मृत्यस्तापकरोऽपि सन् । आमकुम्भस्य लोकेऽस्मिन् , भवेत्पाकविधियथा ।।१३।। यत्फलं प्राप्यते मद्भितायासविडम्बनात् । . तत्फलं सुखसाध्यं स्यान्मृत्युकाले समाधिना ॥१४॥ अनातः शान्तिमान् मयों न तिर्यग्नाऽपि नारकः । धर्मध्यानी पुरो मर्योऽनशनी त्वमरेश्वरः ||१५॥ तप्तस्य सपसरवाऽपि, पालितस्य प्रतस्य च । पठितस्य श्रुतस्याऽपि, फलं मृत्युसमाधिना ।।१६।। अतिपरिचितेष्ववज्ञा. नवे भवेत् प्रीतिरिति हि जनवादः । चिरतरशरीरनाशे, नवतरलामे च किं भीरुः ॥१७॥ स्वर्गादेत्य पवित्रनिर्मलकुले, संस्मयमाणा जनैः, दत्वा भक्तिविधायिनां बहुविधं, वाञ्छानुरूपं धनं । भुक्त्वा भोगमहर्निशं परकृतं, स्थित्वा अणं मण्डले, पात्रावेश विसर्जनामिव मृति, सन्तो लभन्ते स्वतः ॥१८॥
इति मृत्युमहोत्सवम् संस्तरारोहणनक्षत्रफलम् अथ प्रणम्य वीरेशमाखण्डलनतक्रमम् । निहताशेषकर्माण मस्तकन्दर्पवारणम् ॥१२॥