________________
A
मृत्युमहोत्सवम्
२०७ भूक्ष्मकषायस्थाने प्रवर्तते सूक्ष्मसाम्परायश्च । उपशमान्तादिचतुष्के भवति यथाख्यातचारित्रम् ।।१७।। सामयिकादिसंघम-तरतमयोगप्रसिद्धपरिशुद्धिः । एतश्चरित्रपञ्चकमभिनौमि जिनाधिपतिविहितम् ।।१८।। मुनिना चारित्ररता ऋतव्योऽप्यष्टया कथितभेदः । झानाचारो नियतं कालादिरयं विशुद्धभावेन ||१९|| निःशङ्कायष्टकविध प्रक्लमभेदोऽपि दर्शनाचासः । वाद्याभ्यन्तरतपसा द्वादशभेदोऽप्यनशनादिः ।।२०।। स्थानासनगमनादिषु मुनिरनिगृहितपराक्रमो यतते । वीर्याचारस्य बलादनेकदो विनिर्दिष्टः ॥२शा पञ्चमहाव्रतगुप्तित्रयं पञ्चकसमितयो यथाख्याताः । चारित्राचारस्य त्रयोदशेते विभागाः स्युः ।।२२।। द्वाचत्वारिधिमी-दृशं धारितमतिबलेन | चारित्रमहं वन्दे मम दुरितारिप्रणाशाय ॥२३॥
इति चारित्रभक्तिः
मृत्युमहोत्सवम्
मृत्युमागें प्रवृत्तस्य, वीतरागो ददातु मे | समाधिबोधी पाथेयं, यावन्मुक्तिपुरीपुरः ।।१।।