________________
अथसिद्धभक्तिः
१८६
कालेषु त्रिषु मुक्तिसङ्गमजषः स्तुत्यास्त्रिभिर्विष्टपैः, ते रत्नत्रयमङ्गलानि ददता, भव्येषु रत्नाकराः ।।३।। लोकोवभागविजने मुक्तिकान्ताविराजितान् । नष्टकर्माष्टकान् सिद्धान् विशुद्धान् हुदि भावये ।।४।। कर्म बन्धनमुक्तभ्यः प्राप्तेभ्यः परमं पदम् । साक्षात् कुतात्मरूपेभ्यः सिद्धेभ्यः सर्वदा नमः ।।५।। स्वस्वरूपस्थितान् शुद्धान प्राप्ताष्टगुणसम्पदः । नष्टाष्टकमसन्दाहान सिद्धान् वन्द पुनः पुनः ।।६।।
संसारचक्रगमनागतिविमुक्तान् । नित्यं जरामरणजन्यविकारहीनान् ।। देवेन्द्रदाननगणरमिपूज्यमानान् ।
सिद्धांत्रिलोकमहितान् शरणं प्रपद्ये ।।७।। बाहवाभ्यन्तरहेतुजातसुदृशः पूर्वश्रुतरादिमान । शुक्लध्यानयुमाद् विजित्य दुरितं लब्ध्वा स योगिश्रियम् ।। प्राप्याऽयोगिपदं परेण सकलं निर्जित्य कर्मोत्करम् | शुक्लध्यानयुगेन सिद्धसुगुणान् सिद्धान् समाराधये ||८|| सिद्धेभ्यो निष्ठितार्थेभ्यो वरिष्ठेभ्यः कृतादरः । अभिनेतार्थसिद्धयर्थं नमस्कुर्वे पुनः पुनः ।।९।। लोकालोकविलोकनकचतुरं, यद् दर्शनं निर्मलं । यस्य ज्ञानमनन्ततां प्रविदधत् सर्वात्मना वेदकम् ।।