________________
१८४
हद्भकः
स्वं सर्वदोषरहितः सुनयं वचस्ते,
मरवानुकम्पनपरः सकलो विधिश्च । लोकस्तथापि यदि तुष्यति न त्वयीश !, कर्मास्य तनु रचाविव कौशिकस्य || ४ || पुष्पं त्वदीयचरणानपीठसङ्गात्. चूडामणी भवति देव ! जगत्त्रयस्य । अस्पृश्यमन्यशिरसि स्थितमप्यतस्ते, को नाम साम्यमनुशास्त्रमनीश्वरायैः ||५|| मिथ्यामहान्धतमसावृतमप्रबोधमेतत् पुरा जगदभृद्भवगर्तपाति । तदेव दृष्टिहृदयाब्जविकासकान्तैः, स्याद्वाद रश्मिभिरथोद्ध, तवांस्त्वमेव || ६ || पादाम्बुजद्वयमिदं तव देव ! यस्थ, स्वच्छे मनःसरसि समितिं समास्ते । तं श्रीः स्वयं भजति तं नियतं वृणीते, स्वर्गापवर्गजननीव सरस्वतीयम् ॥७॥ विनमदमर, श्रेणी मौलि, स्फुरन्मणिमालिका, किरणलहरी, पातस्स्यायन् नखद्युतिकन्दलम् । प्रणतदुरित, ध्वान्तध्वंस, प्रभात दिवाकरो, दिशतु भवतां श्रेयः शीघ्रं जिनाङ्घ्रिसरोरुहं ||८|| इति अभक्तिः ।
,