________________
१७३
अध्यात्मरहस्यम्
स स्वात्मेत्युभ्यते शश्वद्, भाति हृत्पङ्कजोदरे । योऽहमित्यञ्जसा शब्दात् २पशूनां स्त्रविदा विदाम् ||४|| यो न मुह्यति नो रज्यत्यपि न द्वेष्टि कस्यचित् । स्वात्मा बोधसाम्यात्मा, स शुद्ध इति बुध्यताम् ||५|| आप्तोपमदविशेष।
ध्यानयोः शास्ति या ध्येयं * सा गुरूक्तिरिति श्रुतिः || ६ ||
1
श्रुत्या निरूपितः सम्यक्, शुद्धः स्वात्माऽनुजसा यया । युक्त्या व्यवस्थाप्यतेऽसौ मतिरत्रानुमन्यताम् ||७| सन्तत्या वर्तते बुद्धिः शुद्धस्वात्मनि या स्थिरा । ज्ञानान्तरास्पर्शती सा ध्यातिरिह गृह्यताम् ||८| शुद्धः स्वात्मा यया साक्षात् क्रियते ज्ञानविग्रहः । विशिष्टभावनास्वष्ट - श्रुतात्मा दृष्टिरत्र सा ||९| निजलक्षणतो लक्ष्यं, यद्वानुभवतः (ति) सुखम् । सा संविचिष्टिरात्मा, लक्ष्यं दृग्धीश्च लक्षणम् ||१०|| क्षेत्र सर्वविकल्पानां दहनी दुःखदायिनाम् । सैव स्यात् तत्परं ब्रह्म, सैव योगिभिरर्थ्यते ॥ ११ ॥
१ आत्मा । २ मूर्खाणाम् । ३ स्वस्य ज्ञानेन । ४ परोक्ष- प्रत्यक्षविरोधाभावात् । ५ आत्मानं प्रति रहस्यम् इत्यर्थः । ६ परद्रव्यास्पर्शत्रती स्वद्रव्यस्पर्शषती इत्यर्थः । ७ तत्प्रसिद्धम् । उपादेयरूपां क्रियते याच्यते ।