________________
१५०
त्यानसारः
एतानि दशलक्षणानि.धबध्यानयुक्तस्य । ... शुभलेश्या प्रभावत्वं, शुभभावमहोदयम् ...: शुभसौख्यं महास्थाने स्वर्गराज्यं हि तत्फलम् ।।१४१।। इदानीं सूक्ष्मविकल्पप्रथमभेदेन अग्रिमभेद ऋग्रेण निर्विकल्प चतुःप्रकार शुक्लध्यानमाहू-. पृथक्त्वश्रतवीचार-मेकत्वश्रुतनिश्चलम् ।। सूक्ष्म क्रियाप्रतिपाति, क्षीणक्रियानिवर्तकम् ।।१४२।। अथ नानापृथकत्ववितर्कवीचारं प्रथमं भेदं ध्याचष्टेआत्मद्रव्येषु पर्याये, गुणेवात्मस्वभावजे । भाषश्रुतानुसारेण, सवींचारं स्वचिन्तनम् १४३।। अथकपरमणौ चा, बहुपर्यायचिन्तनम् । अङ्गबाहय श्रुतज्ञानाद्, योगसङ्क्रान्तिसङ्गलम् ।।१४४।। योगत्रयेऽपि सक्रान्तं, धत्तेऽनीहितचितः।। ईपत्स्पृष्टात्मभावत्वं, त्रियोगभ्रमकारणम् ॥१४५।। यात्रमात्मा शिवीभूत, स्तावत्कुत्रात्मदर्शनम् । आत्मदृष्टिं विना सूक्ष्मविकल्पा योति योगिनाम् ।।१४६।। इति पृथक्त्ववितर्कवीचारं प्रथमशुक्लध्यानमुक्त। ___अथ द्वितीयं एकस्ववितकावीचारं भेदमाहआत्मगुणे स्वपर्याय, स्वसंवेदनलक्षणे । स्वस्मिन् एकत्वसलीनं, तदेकल्प श्रुतस्थिरम् ।। १४७||