SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ ध्यानसारः अथ चतुर्थ संस्थान विचयघHध्यानमाहइत्थं त्रिजगतः संस्था, कर्मणामिति संस्थितिः । द्रव्यषट्कस्य संस्थेय-मिति संस्थानचिन्तनम् ।।१३३।। मदवन्मोहसंस्थानं, रजसो ऽर्द्धस्थभित्तिवत् । मधुलिप्तासिधारेव, वेद्यं नाम च चित्रवत् ।।१३४।। कुलालबत् श्रितंगोत्र,-माथुष्कं लोहपाशवत् । भाण्डागारिकवत् विघ्नं, कर्मणामिति संस्थितिः ।।१३५।। देहप्रमितिरात्माय, कर्तभोक्त क्रियान्वितः । अणुस्कन्धस्वरूपोऽयं, पुद्गलः तद्विलक्षणः ||१३६।। अमूर्ताखण्डरूपेण, धर्माधौ तथा मतौ । जीवानां पुद्गलानां च, गतिस्थित्येककारणम् ||१३७॥ कालाणवः स्वयं भिन्नाः, पुजस्था मणयो यथा । वर्तनात्वैव द्रव्याणां, परिणमनहेतवः ।।१३८|| अवगाहेकशक्तित्वेऽनन्तानन्तप्रदेशकम् । अखण्डामूतेमाकाशं, द्रव्याणामिति संस्थितिः ।।१३९।। इति चतुःप्रकारं धर्म्यध्यानमुद्देशमात्रमुक्त। इदानीं सर्वधर्म्यध्यानयुक्तस्य पुरुषस्य लक्षणमाहसत्यं शौच तपस्स्यागः समा मार्दवमार्जवम् । संयमो ब्रह्मचर्यं च सदाकिञ्चन्यभावना ॥१४०||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy