________________
ध्यानसारः
१६५
अथ चतुर्थं संरक्षरणानन्वरौद्रध्यानमाह
मम राज्यं धनं भूमिं यदि वाञ्छन्ति केचन । तेषामहं करिष्यामि, रुधिरैः पितर्पणम् ||१०० || चन्द्र चारुप्रभाशुभ्र, कीचि मे यो न मन्यसे । तस्य कृत्वा ददाम्यहं सुनिश्चितम् || १०१ ॥
1
कुलं शीलं पलं विद्यां ममनिन्दन्ति ये जनाः । कीटमारिं करिष्येऽहं तेषां कुलनिकृन्तनम् || १०२ ॥ इति संरक्षणे रौद्रं कुरुते तामसाशयः ।
न जानीते महामोह - महामाया विजृम्भते || १०३ || (१)
तवात्मत्वं निजं राज्यं तवात्मत्वं निजं धनम् । तवात्मत्वं निजं भूमिं तवात्मत्वं निजं सुखम् ||१०४ ||
1
'
तवात्मत्वं कुलं शीलं तवात्मत्वं महाबलम् | तवात्मत्वं महाविद्या, तवात्मत्वं महाप्रियम् ॥ १०५॥
1
ततवात्मन् ! सदाग्राहं निजरक्षा सुरक्षितम् । ततः संरक्षणे रौद्रं मा कृथा मृढमानसः ।। १०६ ।।
मार्गसंसारपाथोधों, गिलितं मोहरक्षसा । तच्चैतन्यं न ते नष्ट, तस्य रक्षापि कीदृशी ॥ १०७॥ त्याज्यं कर्ममयं गात्रं, बच्चेश्यक्त ं न शक्यते । त्यागोपायः सदाचिन्स्यो, वृथा रक्षेति विप्लवः ॥ १०८॥