SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ध्यानसार: १६३ अथ द्वितीय पानदरीद्रवारमाह--- मृषाजल्पनचातुर्यान् , मया विश्वं प्रतारितम् | असत्यं सत्यता नीतं, यथा मुहयन्ति पण्डिताः ।।८।। मृषाशास्त्रैः मृषामन्त्रैः मृषातन्त्रप्रकाशनः । मायया मोहितो लोको, यथा सत्याय कुप्यति ।।८।। सत्यं राजसभामध्ये, मृषाबादं करोम्यहम् । असत्यं सत्यतां याति, मयि अल्पति तत्क्षणात् ।।८६।। कृतं कुर्वे करिष्येऽहं, मृषावादेन बञ्चनम् । कष्ट ऽहं पातयिष्यामि, ये गोंद्वतचेतसः ।।८७॥ इत्यादिकं मृषानन्दं, चेष्टते मुन्धमानसः । न जानीतेऽपशब्दोऽहं, शब्दाः कार्मणपुद्गलाः ||८८।। आस्तां तावन्मृपावादो, वाचोऽपि न तदाश्रयाः । भावाभावाश्रयास्तस्य, द्रव्यवाचस्तु दूरगाः ।।८९।। (१) महानन्दी यथा कश्चित्, पीत्वा हालाहलं विषम् । असत्यजल्पनं कृत्वा, तथा तुष्यति मन्दधीः ।।९०|| इति मृषानन्दं द्वितीयरौद्रव्यानं निर्गादतं । अथ तृतीयं स्तेयानन्दरौद्रध्यानमाह-- चौर्यचातुर्यचारुत्वं, चौर्यचर्याचमस्कृतिः । चौर्याचारे चिरं चिन्ता, चौर्यचारित्रदर्शनम् ॥९१॥
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy