________________
ध्यानसार:
सुखबीजं सुखस्थानं, सुखहेतुं सुखप्रदं । निजात्मानं स्वयं त्यक्त्या, बहिर्धाम्यति मृदधीः ॥६६|| यस्य छायाऽपि संस्पृष्टा, महेन्द्रत्वं प्रयच्छति । तं महेशं परित्यज्य, महामूढो याचते परम् ॥६॥ त्रैलोक्यानुग्रहं कर्तु, धत्तेऽनन्तचतुष्टयम् । यो देवः स कथं नाम, दारिद्रैः परिहूयते ।।६।। रत्नत्रयस्वभाषोऽपि, पार्थिवं रत्नमीहते । स्वयं कन्पद्रुमारूढो, बदरी यातुमत्सुकः ॥६९|| शुभाशुभपरिणामा, ये केचित पदगाश्च ते ! त्रिलोकेऽनन्तशो भुक्ता निदानं क्रियते कथं ॥७०|| इति चतुर्थनिदानार्तध्यानप्रतिषेषमात्रं कथितम् । इदानी सर्वार्तध्यानयुक्तस्य पुरुषस्य लक्षणमाहशोकशङ्काभयभ्रान्ति, मोहमूनिमश्रमम् । दैत्याक्रन्दननिःश्वास-आलापपरिदेवनम् ||१|| निद्राप्रमादबैकल्यं, चिन्ता चितस्य विप्लवः । कलहो विषयोद्रेक, इत्याध्यानलमणम् ||७२|| वृद्धकर्म समाकीण, बहुःखनिवन्धनम् । तिर्गजन्मफलं तस्य, संसारावर्तवार्षिक: ।।७३।। इत्यशुभविकल्परूपातध्यानलक्षणं प्रतिपादितम् ।
इदानी महाऽशुभान रोद्रध्यानविकल्पानाह