________________
ध्यानसारः
१५६ इष्टानिष्टदशाकान्तं कर्म जानीहि केवलं । योगोऽयोगस्तु तस्यैव, कर्मणस्तव किंच न ||४|| अनिष्ट तब नास्त्येव, विज्ञानकनिजात्मनः । असदूपं तथा कृत्वा, तत्फलं तत्फलं स्फुटं ।।४९।। एतदेव महानिष्ट, यन्त्रष्ट ज्ञानमात्मनः । ज्ञानकात्मस्थिते ज्ञाने सर्वमिष्ट हि जायते ।।१०।। इत्यनिष्टसंयोगजंद्वितीयाध्यानप्रतिषेधमुद्दिष्टं । अथ तृतीयं रोगसम्भूतार्तध्यानमाहवातपित्तकफोद्रे कासशोणितसम्भवाः । दुष्टाहारविहारेण, विरूदा व्याधयो मम ।।५।। तुन्दिलन्वं कृसत्वं च, बलीपलितसम्भवाः । काममनिष्टकं कष्ट, कथंकारं विनश्यति ।।२।। भिषम्मेषजमन्त्रायाः, सर्वेक्षय मुपागताः । हा हा मे व्याधयः कष्टा, विनश्यन्ति कथं कदा ।।५३।। इत्यादिरोगसंभृतां, पीडामात्मनि मन्यते । निमलं निर्विकारं च, नैवात्मानं विबुध्यते ॥५४॥ संसारोऽयं महाव्याधि, यत्र बेयो न विद्यते । अथ चेद् विद्यते वैद्यः, तदा स्वात्मैव नापरः ।।५५|| ज्ञानाद्वैते कथं व्याधि-ज्ञानाद्वैते कथं व्यथा । ज्ञानाते कथं दुःखं, ज्ञानाद्वैते कथं मृतिः ॥५६।।