________________
ध्यानसार:
आसंसारसमुत्पन्ना-दविद्यावादकन्दलाद् । दुर्निवारा भवन्त्येव, विकल्पा भवकारणं ।।२२।। नभस्तोमजले पूर्णा सुखेच्छाचातकम्पिते । उत्पद्यन्ते विपद्यन्ते, मानसे विविधोमयः ।।२३।। चितचञ्चलताहेतु-विकल्पा एव केवलं ! विकल्पा कर्मबन्धाय विकन्याः कर्मराशयः ॥२४॥ विकल्पा आत्रयाः सर्वे विकल्या कल्मषोत्कराः ।
भमानध्द या विनाशाय विमान निस्विताः ॥२५॥ तथा चोक्त समयसारकलशे
विकल्पकः परं कर्ता, विकल्पाः कर्म केवलं ।
न जातु कर्मकर्तृत्वं, सविकल्पस्य नश्यति ।। ते विकल्पा द्विघा शुभा शुभाश्च तत्र तावदशुभानाह --
अनाधनात्मवेद्यत्वात, परद्रव्यपरायणः । आत्मोपलम्भदूरस्था सर्वाशुभविकल्पका ।।२६।। अहो मोहस्य माहात्म्य-मस्या संसारसन्ततौ । आत्मानमेव मोहाच्च, नैव प्रत्यभिज्ञायते ॥२७॥ निजात्मानं नैव जानन्तः, क्वचिज्ज्ञानमदोद्धताः । दूरंनष्टं विजानीप, इति जल्पन्ति निस्त्रपाः ।।२८॥ बहिहियथा भावो, भावकर्तुः प्रजायते । तथा तथा स्फुरन्त्येत्र, विकल्पा बन्धहेतवः ।।२९।।