________________
१५३
तीर्थेशाचक्रनाथाः खचरहलधराः यं गणेन्द्राः मुनीन्द्राः | ध्यानाधि संविगाह्य प्रचुरगुणमणिव्रातमव्यग्रदेशम् । याता यास्यन्ति यान्ति प्रवर शिवसुधापानभू भोगतृप्ताः दासस्य श्रीगुरोर्मे शमसुखद सौमानसे स्यात्सदेव || १५५ || विपुलवाङ्मयवारिधितत्त्वसन्
ध्यानसारः
मणिमयूखलयांश कलाकृतेः ।
स्मरणमात्रमिदं] गदिदं मया
किमथ दृष्टमहो न महात्मभिः ||१५६ || ध्यानोपदेशकोषोऽयं सरस्वत्या यदर्पितः । भव्यैरादीयमानोऽपि सर्वदाऽऽक्षयसंस्थितिः || १५७ ॥ श्रीनन्दनन्दिवत्सः श्रीनंदीगुरुपदाब्जपट्चरणः । श्रीगुरुदासो नन्यान्मुग्धमतिः श्रीसरस्वतीसूनुः || १५८ ।। इतिध्यानोपदेशकोषः यद्वा योगसारसंग्रहः
ध्यानसारः
करणक्रमनिःक्रान्तं, कतु कर्मादिवर्जितं । ध्यानुध्येयपथातीतं प्रत्यग्ज्योतिरुपास्महे ॥ १ ॥ निराकारं निराधारं, निराध्येयं निराश्रयं । एकानुभवसम्पृक्तं, चैतन्यं चेतयाम्यहं || २ || यत्र सर्वत्र विज्ञानं, विज्ञानैकात्म्यतन्मयं । विज्ञानास्वादसम्बद्धं सिद्धं विज्ञानयोगतः || ३ ||
+