________________
५.
भयानोपदेशोत: अथवा योगसारसंग्रहः
यूक्ष्म क्रियाप्रतिपाति तृतीयं यदपाति तत् । समुच्छिन्नक्रियं तुर्य यस्तयन्धनिबन्धनम् ।।१२।। ध्येकयोगवपुर्योगा योगिनां तदनुक्रमात । परे केलिनः शुक्ले पूर्वे पूर्व विदः स्मृते ||१२६।। एकाश्रये सवीचारे सक्तिके द्वितीयकम् । अवीचार च वीचारे योगागर्थसंक्रमः ||१२७॥ वितर्कः श्रुतमित्याहुर्यस्मादर्थान् पृथक् पृथक् । ध्यायत्यागममालम्ब्य पथक्वं तेन तद्विदुः ।।१२८।। अर्थादर्थं वचः शब्दाद्योग योगात् समाश्रयन् । पर्यायादपि पर्यायं द्रव्याणो श्चिन्तयेद् ध्र वम् ॥१२९।। एवं शान्तकषायात्मा कर्मकलाशुशुक्षणिः । एकत्वध्यानयोग्यं स्यात् पृथक्त्त्वारो जिताशयः॥१३०|| एक द्रव्यमथाणुचा पर्यायं चिन्तयेधतिः । योगेनैकेन यत्क्षीणस्तदेकत्वमुदीरितम् ।।१३१॥ शुक्लध्यानानलेनैव दग्ध्वा घातीन्धनोत्करम् । तदाहन्त्यमनुप्राप्तो भाति भव्याब्जभास्करः ॥१३२।। धर्मामृतप्रवर्षेण प्रीणयन् भव्यचातकान् | पर्यटत्यविश्नमुद्धो जिनो ध्यानधरो धराम् ॥१३३।। येषामायुः समानि स्यु नामगोत्रे च वैद्यकम् । अकृत्वा ते समुद्धातं शैलेश्यमियति जिनाः ॥१३४।।