________________
ध्यानोपदेशकोषः अथवा योगसारसंग्रहः
सद्दष्टिद्धनुधरः संवराय सवर्मकः । साधुयोधः सदाभेद्यः यदि न स्यादसंयमः || १०६ ।। कषायकालिकाकर्म- मललेपाद्विशुध्यति ।
जीवो हेमवदत्यन्तं तप्यमानस्तपोऽग्निना ॥ १०७ ॥ उत्पतविपद्येत लोकोदुम्बरसदृशः ।
क्रिमिराशिरिवासाता-संतप्ता जन्तुसन्ततिः ||१०८ ॥ मानुष्यं कर्मभूयग्यः सदेशः कल्पयत्कुलम् । सत्यपीत्यादि दुष्प्रापं बोधिरत्नं सुदुर्लभम् ||१०९|| इहैवोपशमात्सौख्यं नृदेवेषु परत्र च । आनन्दमक्षयं मोक्षे धर्मरत्नादवाप्यते || ११ ||
૪૬
एताभिर्भावनाभिः स्वं भावयन् भव्यपुङ्गवः । निर्विण्णात्मनि संविग्नो ध्याने दादुर्यं समश्नुते ॥ १११ ॥
निष्प्रकम्पशिखो दीपस्तमो यन्निरस्यति ।
पापान्धतमसं हन्ति तद्वद्ध्यानं सुनिश्चलम् ॥ ११२ ॥ क्षुष्णोष्मादिभि दुःखैर्विषये प्रकम्पते । निसर्गतरलं चिबाना शीर्णवर्णवत् ॥ ११३ ॥ धतुं मनो न शक्नोति मुनिरन्पवलो यदा । निवीय बन्धसम्बन्धं केवलं कुरुते तदा ॥ ११४ ॥ वज्रकायं परिप्राप्य योगमारभते यदा । नियन्तुं शक्नुयाद्योगी तदा चिसं सुनिश्चलम् ||११५ । ।