________________
१४६
ध्यानोपदेशकोषः अथवा योगसारसंग्रहः
त्रिकालविषयं साक्षाच्छक्तिव्यक्तिविवक्षया | सामान्येन नयेनैक परमात्मानमर्थतः ।। ८७ ।। कल्याणातिशयराढ्यो नवललब्धिमान् ! समास्थितो जिनो ध्येयः प्रातिहाय : परिष्कृतः ।।८८|| सर्वलक्षणसम्पूर्णनिर्मले मणिदर्पणे ! संक्रान्तविम्बसादृश्यं शान्तं स चिन्तयेद्विभुम् ||८९।। सर्वज्ञः सर्वक सार्यों निमलो निष्कलोऽव्ययः । वीतरागः परोदेवः योगिनो योगगोचरः ॥१०॥ मूषागर्भगताशेष-माक्षिकप्रतिमो भवेत् । यागाकारसंस्थानं तागाकृतिक स्मरेत् ॥९१।। अनन्यशरणस्तद्धि तत्सली कमानसः । तद्गुणस्तत्स्वभावात्मा तत्तादात्म्यं स एव सन् ॥१२॥ योजयेत्तद्गुणग्रामैरात्मानं परमात्मना । तद्भावभावितो भव्यस्तत्स्वरूपमुपारनुते ॥९३।। त्रिकालगोचरानन्त-गुणपर्यायसङ्गतः । अनादिनिधनोऽमूर्तः संख्यातीतप्रदेशयुक् ।।९४॥ निष्कलः परमात्माऽहं लोकालोकावभासनः । विश्वव्यापी स्वभावस्थो विकारपरिवर्जितः ।।९५।। इतीदृक् पुरुषाकारः स्वाङ्गगर्भगतः स्फुरन् । सर्वदा परमात्मैव ध्येयः शुद्धस्वभावभाक् ॥९६।।