________________
ध्यानोपदेशकोष: अथवा योगसारसङ्गहः १४१ विषादामर्षशान्त्यादि-संक्षेपातस्य लक्षणम् | मैत्रीप्रमोदकारुण्याः भावना भवभेदिकाः ॥३८।। सैयोगे यद्यनिष्टस्य समन्वाहरणं स्मृतेः । तद्वियोगाथमाद्या” मनोजस्य विपर्ययात् ।।३९।। स्याद् द्वितीयस्तुतीयश्च वेदनायर्या चतुर्थकम् । निदाने श्रावको ध्याता विरते तु विदुस्त्रयः ।।४।। फलं तियग्गतिरस्य रौद्रस्य नारको गतिः । संयतासंयतो ध्याता सम्यग्दृष्टिरपीप्यते ॥४१॥ हिंसायामनृते स्तेये विषयेष्वथ रक्षणे । जीवस्योत्पद्यते शश्चत कषायकलुषस्य तत् ।।४२।। रागाद् द्वेषान्ममत्वाद्वा ये मया हा विराधिताः । समन्तु जन्तवस्ते मा तेभ्यो मृग्याम्यहं पुनः ।।४।। मनसा वपुषा वाचा कृतकारितसंमतः । रत्नत्रयभवं दोष गहें निन्दामि वर्जये ।।४४!! मधुरोऽम्लः कटुस्तिक्तः कषायो लवणं तथा । अशनादि चतुर्विधोऽऽहारस्त्यक्तो मयाऽधुना ।।४५|| नाहं देवो मनुष्यो वा नैव तियङ् न नारकः । सिद्ध एव विशुद्धात्मा सर्व कर्मविनिर्मितम् ।।४६।। कर्मज भावमुत्सृज्य संप्रपद्ये स्वभावजम् । आत्मैव केवलोऽहं मे, ज्ञानदर्शनवैभवः ।।४।।