SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ध्यानोपदेशकोषः अथवा योगसारसङ्ग्रहः १३६ विषयामिषसेवयास्तृप्तिर्नैवोपजायते । केवलं पापबन्धः स्यान्नानादु ःखखनिनृणाम् ||१८|| रागान्धबुद्धयो जीवाः सौख्याशाभिः वशीकृताः । सुखदातृन् प्रपश्यन्ति विषयान् विषसन्निभान् ।। १९ ।। तदुद्भवमजानानो जनोऽन्यत्र समीप्सति । यदन्यत्र स्थितं वस्तु तदन्यत्र किमाप्यते || २० || आत्यन्तिकस्वभावोत्थानन्तज्ञानसुखः पुमान् । परमात्माविपः कन्तुरहो माहात्म्यमात्मनः ||२१|| जानन्नपि न जानाति पश्यन्नपि न पश्यति । विषयेषु विषक्तात्मा श्रृण्वन्नपि श्रृणोति न ||२२|| न वेति किं करोमीति कामसंमूढमानसः । बालिशः शिशुवन्नित्यं विधथे देहमण्डनम् || २३॥ तावदेव सुखी जीवो यावन स्थिति क्वचित् । स्नेहबन्धनबद्धस्य दुःखमेव पदे पदे ||२४|| न दुःखं न सुखं किंचित् संसारे परमार्थतः । वासनावासितो जन्तुः सुखं दुःखं च मन्यते ॥ २५॥ दुःखितः सुखिनं पश्यन्नात्मानं सुखवान्न किम् । अन्यथा वैपरीत्येन तस्मात् संकल्पजं श्यम् ||२६|| संकरूपोऽपि च जन्तूनां कारणं बन्धमोक्षयोः । वीतरागोऽपवर्गस्य रागो बन्धस्य कारणम् ||२७||
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy