________________
ध्यानोपदेशकोषः अथवा योगसारसङ्ग्रहः
इच्छामि भंते ! समाहिभचिकाउसग्गो को तस्मालोचैड रयणचय सरुषपरमप्पज्झाणलक्खणं समाहिमचीए णिच्चकालं अचेमि, पूजेमि, वंदामि, जमसामि, दुक्खक्खओ कम्मक्खओ वो हिलाहो, सुगइगमणं, समाहिमरणं, जिणगुण संपत्ति होदु मज्झं ।
[ यथाशक्ति शुद्धात्मगुणचिन्तनं कुर्यात् ] ध्यानोपदेशकोषः अथवा योगलारसङ्गहः मद्रं भूरिभवाम्भोधिशोषिणे दोषमोषिणे । जिनेशशासनायाऽस्तु कुशासन विशा सिने || १ || संयमोदाममारामं श्रीगुरोः पादपङ्कजम् । वन्दे देवेन्द्रवृन्दोधन पोलिमाला करार्चितम् ||२| योगीन्द्रो रुन्द्रयोगाग्निदग्धकर्मेन्धनोऽङ्गिनाम् । विश्वज्ञो विश्वश्वाऽस्तु मङ्गलंमङ्गलार्थिनाम् ||३|| सवाग् वृत्तपदन्यास वर्णालङ्कारधारिणी । सन्मार्गाङ्गी सदैवास्तु प्रसन्ना नः सरस्वती ||४|| यस्माद् ध्यानं बुवैरिष्ट साक्षान्मोक्षस्य साधनम् | अतो मोक्षार्थमव्येभ्यस्तदेवास्माभिरुच्यते ॥ वैराग्यं दशधा धर्मो ध्यानाभ्यासो ऽपवर्गदः । अतो मुमुक्षवो भव्या यतन्ते ध्यानसाधने || ६ || सर्वज्ञोपज्ञमाप्यापि दुर्लभं धर्ममङ्गिनः । प्रमादाद्धि प्रणश्यन्ति विचित्रा कर्मणां गतिः ||७||
१३७