________________
अथसमाविभक्तिः अहमित्यक्षरं ब्रह्मा, वाचकं परमेष्ठिनः । सिद्धचक्रस्य सद्धीजं सर्वतः प्रणिदध्महे ।। ११ ।। कर्माष्टकधिनिर्मक्तं मोक्षलक्ष्मीनिस्तनाप ! सम्यक्त्वादिगुणोपेतं सिद्धचक्रं नमाम्यहं ।। १२ ।। आकृष्टिं सुरसम्पदा विदधते मुक्तिश्रियो वश्यतामुच्चादं विपदा चतुर्गतिभुवां विद्वेषमात्मनसाम् । स्तम्भं दुर्गमनं प्रति प्रयततो मोहस्य सम्मोहनम्, पायात् पञ्चनमस्क्रियाक्षरमयी साराधना देवता ।।१३।। अनन्तानन्तसंसार-सन्ततिच्छेदकारणम् । जिनराजपदाम्भोज, स्मरणं शरणं मम ।। १४ ।। अन्यथा शरणं नास्ति, त्वमेव शरणं मम | तस्मात् कारुण्यभावेन, रक्ष रक्ष जिनेश्वर ! ||१५|| नहि त्राता नहि त्राता, नहि त्राता जगत्त्रये । वीतरागात् परो देवो, न भूतो न भविष्यति ।।१६।। जिने भक्तिर्जिने भक्तिर्जिने भक्तिर्दिने दिने । सदा मेऽस्तु सदा मेऽस्तु सदा मेऽस्तु भवे भवे ।।१७।। याचेऽहं याचेऽहं जिन ! तव चरणारविन्दयोभक्तिम् । याचेऽहं याचेऽहं पुनरपि तामेव सामेव ॥१८॥ विनीघाः प्रलयं यान्ति शाकिनीभूतपभगाः । विषो निर्विषतां याति स्तूयमाने जिनश्वरे ।।१९।।