________________
अश्वचैत्यभक्तिः
१३१ अवतीर्णवतः स्नातुं ममापि दुस्तरसमस्तदुरितं दूरं । व्यपहरतु परमपावनमनन्यजययस्वभावभावगभीरम्।।३०।।
अतारतमन्दोलनं शकलोमलनयन, कटालशरमोसहीनमविकारतोद्रे कतः । विषादमदहानितः प्रहसितायमानं सदा, मुखं कथयतीव ते हृदयशुद्धिमात्यन्तिकीम् ||३१।। निराभरणभासुरं विगतरागधेगोदयान् निरम्बरमनोहरं प्रकृतिरूपनिदोषतः । निरायुधसुनिभयं विगतहिंस्यहिंसाक्रमात निरामिषसुत प्तिमद्विविधवेदनानां भयात् ||३२|| मितस्थितनखाङ्गजं गतरजोमलस्पर्शनं, नवाम्बुरुहचन्दनप्रतिमदिव्यगन्धोदयम् । रवीन्दुकुलिशादिदिव्यबहुलक्षणालङ्कृतं, दिवाकरसहस्रमासुरमपीक्षणानां प्रियम् ॥३३।। हितार्थपरिपन्थिभिः प्रबलरागमोहादिभिः, कलङ्कितमना जनो यदमिवीक्ष्य शोशुद्धयते । सदाभिमुखमेव यज्जगति पश्यतां सर्वतः, शरद्विमलचन्द्रमण्डलमिवोत्थितं दृश्यते ।।३४।। तदेतदमरेश्वरप्रचलमौलिमालामणिस्फुरतकिरणचुम्बनीयचरणारविन्दद्वयम्,