SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ अथचैत्यभक्तिः इति पञ्चमहापुरुषाः प्रणता जिनधर्मवचनचैत्यानि । चैत्यालयाश्च विमला दिशन्तु बोधिं बुधजनेष्टां।।१०।। अकृतानि कृतानि चाप्रमेयद्यतिमन्ति तिमत्सु मन्दिरेषु । मनुजामरपूजितानि वन्दे प्रतिबिम्बानि जगत्त्रये जिनानाम्।११ युतिमण्डलमासुराङ्गयष्टी प्रतिमा अप्रतिमा जनासमानाम् । भुवनेषु विभूतये प्रवृत्ता वपुषा प्राञ्जलिरस्मि वन्दमानः।।१२।। विगतायुधविक्रियाविभूषाः प्रकृतिस्थाः कृतिनां जिनेश्वराणाम् प्रतिमाः प्रतिमागृहेषु कान्स्या प्रतिमा कल्मषशान्तयेऽभिवन्दे१३ कथयन्ति कषायमुक्तिलक्ष्मी परया शान्ततया भवान्तकानाम् । प्रणमाम्यभिरूपमूर्तिमन्ति प्रतिरूपाणि विशुद्धये जिनानां ।१४। यदिदं मम सिद्धभक्तिनीतं सुकृतं दुष्कृतं वत्मरोधि तेन । पटुना जिनधर्म एव भक्तिर्भवताजन्मनि जन्मनि स्थिरा मे।१५ अर्हतां सर्वभावानां दर्शनज्ञानसम्पदाम् । कीर्तयिष्यामि चैत्यानि यथावुद्धि विशुद्धये ।।१६।। श्रीमद्भवनवासस्थाः स्वयं पन्दिता नो विधेयासुः प्रतिमाः परमां गतिम् ।।१७॥ यावन्ति सन्ति लोकेऽस्मिन्मकृतानि कृतानि च । तानि सर्वाणि चैत्यानि वन्दे भृयासि भूतये ॥१८॥ ये व्यन्तरविमानेषु स्थयांसः प्रतिमागृहाः। ते च सपामतिकान्ताः सन्तु नो दोषविच्छिदे ।१९।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy