SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ १२० नवदेवतास्तोत्रम् स्याद्वादाकधरं त्रिलोकमहितं देवैः सदा संस्तुतं, सन्देहादि विरोधमावहितं सार्थसन्देशकम् । याथातथ्यमजेयमाप्तकथितं कोटिप्रभाभासितं, श्रीमज्जैनसुशासनं हितकरं कुर्यात् सदा मङ्गलम् ॥७॥ सौम्याः सर्वविकारभावरहिताः शान्तिस्वरूपात्मकाः, शुद्धध्यानलयाः प्रशान्तबदनाः श्रीप्रातिहार्यान्विताः । स्शत्मानन्द विकाशकाश्च सुभगाश्चैतन्यभावावहाः, पञ्चानां परमेष्टिना हि कृतयः कुर्वन्तु मे मङ्गलम् ॥८॥ घण्टातोरणदामधूपघटकः राजन्ति सन्मङ्गलैः, स्तोत्रश्चित्तहरैमहोत्सवशते दिवसङ्गीतकः । पूजारम्भमहाभिषेकयजनैः पुण्योत्करैः सक्रियः, श्रीचैत्यायतनानि तानि कृतिनां कुर्वन्तु मे मङ्गलम्।।९।। इत्थं मङ्गलदायका जिनवराः सिद्धाश्च सूर्यादयः, पूज्यास्ता नवदेवता अघहरास्तीर्थोचमास्तारकाः । चारित्रोज्ज्वलतां विशुद्धशमता बोधि समाधि तथा, श्रीजैनेन्द्र 'सुधर्म'-मात्मसुखदं कुर्वन्तु मे मङ्गलम् ॥१०|| सर्वज्ञः सर्वदर्शी भवमरणजरान्तकशोकव्यतीतो । लब्धात्मीयस्वभावः मतसकलमलः शश्वदात्मानपायः ।। दक्षः संकोचिताभवमृतिचकित लोकयात्रानपेक्षः। नष्टामाधात्मनीन-स्थिरविशदसुख-प्राप्तये चिन्तनीयः।।
SR No.090476
Book TitleStotradisangrah
Original Sutra AuthorN/A
AuthorAjitsagarsuri
PublisherLadmal Jain
Publication Year
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy