________________
नवदेवतास्तोत्रम्
११६ श्रीमन्तोनसुगसुरेन्द्रमाहिता लोकायसंवासिनः, नित्यं सर्वसुखाकरा भयहरा विश्वेषु कामप्रदाः । कर्मातीतविशुद्धभावसहिता ज्योतिः स्वरूपात्मका, श्रीनिला जगाशासित्पुरविता हु तु मे मङ्गलम् ।।२।। पञ्चाचारपरायणाः सुविमलाश्चारित्रसंद्योतका, अहंद्रूपधराश्च निस्पृहपराः कामादिदोपोज्झिताः । बाहयाभ्यन्तरसङ्गमोहरहिताः शुद्धात्मसंराधकाः, आचार्या नरदेवपूजितपदाः कुर्वन्तु मे मङ्गलम् ।।३।। वेदाङ्ग निखिलागमं शुभतरं पूर्ण पुराणं सदा, सूक्ष्मामूक्ष्मसमस्ततत्त्यकथकं श्रीद्वादशाङ्ग शुभम् । स्वात्मज्ञान त्रिवृद्धये गतमला: येऽध्यापयन्तोऽनिशं, निन्द्रा वरपाठकाः सुविमलाः कुर्वन्तु मे मङ्गलम् ॥४॥ स्पस्वाऽऽशा भवभोगपुरतनुजां मोहं परं दुस्त्यचं, निःसङ्गाः करुणालपारच विरता दैगम्बरा धीधनाः । शुद्धाचाररता निजात्मरसिका ब्रह्मस्वरूपात्मकाः, देवेन्द्ररपि पूजिताः सुमुनयः कुर्वन्तु मे मङ्गलम् ।।५।। जीवानामभयप्रदः सुखकरः संसारदुःखापहः, सौख्यं यो नितरो ददाति सकलं दिव्यं मनोवाञ्छितम् । तीधेशैरपि धारितो हृयनुपमः स्वर्मोक्षसंसाधकः, धर्मः सोऽत्र जिनोदितो हितकरः कुर्यात् सदा मङ्गलम्।६।