________________
अद्याष्टकस्तोत्रन्
११७
फलं यत् तपोद्रोरभृद् भव्य ! भद्रं । भजोऽहं जगज्जीवनं श्रीजिनेन्द्रं ।।६।। उपादानहाने फलं चाप्युपेक्षा ।। परैरन्यभावादिमाने सुशिक्षा ।। तदाभासक्त्वाच्च तेषामभद्रं । भजेऽहं जगज्जीवनं श्रीजिनेन्द्र |७|| अतुल्या अनन्ता गुणा स्तात्रकीनाः । सदोषाः सुतुच्छा मतिर्मानकीना ।। पदं प्राप्यमेतावतवाहमिन्द्रं । भजेऽह जगज्जीवनं श्रीजिनेन्द्र ।।८।।
स्रग्धराछन्दः वार्धाराग्रहणा ते, सुरमति सुखदा, तुष्टिपुष्टयादिकम् । दिव्या वागागमोत्था श्रुतिसरणिगताऽनन्तमिथ्यात्वहीं ।। रागद्वेषादिमुक्तो सुनिरिह विदितः शुद्धोधाशयालुः । जन्मांहोवारणात् कस्तवमिममसृजदू वादिराजो दयालुः ।।९।।
अद्याष्टकस्तोत्रम्
अनन्तकीतिविरचितम् अद्याऽखिलं कर्म जितं मयाऽय, मोक्षो न लतोऽननुभूतपूर्वः । तीर्णो भवार्णोनिधिरयघोरो जिनेन्द्रपादाम्बुजदर्शनेन ॥१॥ अद्य श्रियो मां वृणुतेऽद्य लोके, मान्योऽस्मि मान्यैरपि सर्वतोऽहं । उपार्जितं पुण्यमगण्यमय, जिनेन्द्रपादाम्बुजदर्शनेन ||२||