________________
११२
आत्मभावनाष्टकम्
विद्यापयं धर्मकरं विमारं, यतेन्द्रिय श्रीऋषिनायकं तं । स्वयं गुरु भूतपति विदोष, श्रीवीतरागं प्रणमामि नित्य||७|| दिगम्बरं धर्ममयं सुधीरं, शतेन्द्रवन्यं जगदेकतीर्थ । अपारसंसारसमुद्रपोतं, निर्ग्रन्थनाथेन नुतं जिनेन्द्र ।। ८ ।।
अखिलगुणसमुद्रं देवदेवः प्रपूज्यं, मुनिगणधरसेव्यं भव्यसत्त्वकबन्धुम् । रहितनिखिलदोष वीतरागं श्रियाष्य, सकलविमलकील संस्तुवे तद्गुणाय ।। ९॥
आत्मभावनाष्टकम्
अनुपमगुणकोशं, चिनलोभादियाशम्, वनभवनसमानं, केवलज्ञानमानम् । विनमदमरवृन्द, सच्चिदानन्दकन्दम्, जिनबलसमतखं, भावयाम्यात्मतत्वम् ।। १ ।। रहितसकलमोह, मुक्तसंसारदाह, प्रहतविततमार्ग, क्षीणनोकर्ममार्ग । सहजचरणसारं, जन्मवाराशिपारं, स्वहितपरिणतत्वं, भावयाम्यात्मतत्त्वं ।। २ ।। अमृतसुखमनन्तं, निश्चलं मुक्तिकान्तं, शमितखलकषायं, लब्धमुक्त्यभ्युपायम् ।