________________
श्रीपद्मनन्दिररितं वीतरामस्तोत्रम
आचारवन्धुरमितं जनता-सुराग, पश्यन्ति पुण्यसहिता भुवि वीतराग ।।३।। कन्दर्पसर्पमदनाशनवैनतेयं, पापापहारजगदुसमनामधेयं । संसारसिन्धुपरिमन्थनमन्दरागं, पश्यन्ति पुण्यसहिता भुवि वीतरागं ॥४॥ निर्वाणकनकमलारसिकं विदम्भ । बर्द्धिष्णु सद्बतचयामृतपूर्णकुम्भं । बालाद् विमोहतरुखण्डनचण्डनागं, पश्यन्ति पुण्यसाहिता भुवि वीतरागं ।।३।। आनन्दकन्दमुरीकृतधर्मपक्ष, ध्यानाग्निदग्धनिखिलोद्धतकर्मकक्षं । व्यस्तालवाजगघातविधायि योग, पश्यन्ति पुण्यसहिता भुवि वीतराग ॥६॥ स्वच्छोच्छलद्ध्वनिविर्जिन्मेघनाद, स्याद्वादवादिनमपाकृतिसद्विघातं । निःसीमसंयमसुधारससचडार्ग, पश्यन्ति पुण्यसहिता भुवि वीतराग ||७|| सम्यक्प्रमाणकुमुदाकरपूर्णचन्द्र ! माङ्गल्यकारणमनन्तगुणं वितन्द्र ।