________________
१०८
वीतरागस्तोत्रम्
संसारनीरनिधितारणयानपात्र, ज्ञानैकपात्रमतिमात्र मनोज्ञगात्रम् |
दुर्वारमारघनपातनमातरागं, पश्यन्ति पुण्यरहिता न हि वीतरागम् || ३ ||
दान्तं नितान्तमतिक्रान्तमनन्तरूपं, योगीश्वरं किमपि संविदित्तस्वरूपम् । संसारमारवपथाद्भुतनिर्भराऽगं,
पश्यन्ति पुण्यरहिता न हि वीतरागम् ||४||
दुष्कर्म भीत जनताशरणं सुरेन्द्रः, निःशेषदोषरहितं महितं नरेन्द्रेः । तीर्थङ्करं भविकदापितमुक्तिमार्ग, पश्यन्ति पुण्यरहिता न हि वीतरागम् ||५||
कल्याणचल्लिवनपल्लवनाऽम्बुवाहं, त्रैलोक्यलोकनयनैकसुधाप्रवाहम् ।
सिद्धयङ्गनावर विलास निबद्धरागं, पश्यन्ति पुण्यरहिता न हि वीतरागम् || ६ ||
लोकावलोकनकलाऽतिशयप्रकाश, व्यालोककीर्तिवरनिर्जित कम्बुहास्यम् ।
बाणीतरङ्गनवरङ्गलसत्तडागं,
पश्यन्ति पुण्यरहिता न हि वीतरागम् ||७||