________________
१०२
वीरस्तवनन्
आयत दिव्यशरीरं शिवसौख्यकरं सुरग्भिराशास्यम् । रतिरागहीन प्रीडेऽपूर्वं श्रीवर्द्धमानकन्दर्पम् ॥ २ ॥ संसारदावानलमेघनीरं सम्मोहधूलीहरणे समीरः । मायारसादारणसारसीरं नमामि वीरं गिरिराजधीरम् ||३|| यो भूतभव्यभवदर्थयथार्थवेदी, देवासुरेन्द्र मुकुटार्चितपादपद्मः । विद्यानदीप्रभवपर्यंत एक एव,
तं क्षीणकल्मषगणं प्रणमामि बीरम् ||४||
जरा जरत्या स्मरणीयमीश्वरं, स्वयंवरी भूतमनश्वरश्रियः । निरामयं वीतमयं भवच्छिदं नमामि वीरं नृसुरासुरैः स्तुतम् || ५ ||
स्वहस्त रेखासदृशंजगन्ति, विश्वानि विद्वानपि वीर्यमूर्तिः । अश्रान्तमूतिर्भगवान् वीरः, पुष्णातु नः सर्वसमीहितानि ।। ६ ।। यदाननेन्दोर्विबुधैकसेव्या दिव्यागमच्याजसुवास्रवन्ती । भव्य प्रवेकान्सुखसात्करोति पायादसौ वीरजिनेश्वरो नः ||७|| श्रियं परं प्राप्तमनन्तबोधं मुनीन्द्रदेवेन्द्र नरेन्द्रवन् । निरस्तकन्दर्प गजेन्द्रदर्पं नमाम्यहं वीरजिनं पवित्रं ॥ ८ ॥