________________
श्रीरस्तवनम्
१०१
सुरपमहिषादः क्रोधदावाग्निकन्दः, जगति जयति चन्द्रो वर्धमानो जिनेन्द्रः || ४ || प्रबलबलविशालो मुक्तिकान्तारसालः, विमलगुणविशालो नीतिकल्लोलमालः । अतुल सुखनिवासो भृरिसन्तापकालः, जगांत जयति चन्द्री वर्धमानो जिनेन्द्रः ||५|| विषयविषविनाशो भूरिभाषानिवासः, हृतभवभयपाशः दीप्तिसम्पूरिताशः । श्रममुखविनिवासो कीर्तिबल्ली निवासः, जगति जयति चन्द्रो वर्धमानो जिनेन्द्रः || ६ || मदनमदविदारी चारुचारित्रधारी, नरकगतिनिवारी मोक्षमागवितारी ।
नृसुरगमनकारी केवलज्ञानधारी, जगति जयति चन्द्रो वर्धमानो जिनेन्द्रः ||७|| वचनसहनवीरः पापधूलिसमीरः, कनकनिकरगौरः क्रूरकर्मारिशूरः ।
कलुषदहननीरः पातितानङ्गवीरः, जगति जयति चन्द्रो वर्धमानो जिनेन्द्रः ||८|| वीरस्तवनम्
1
अभानुमेयं तिमिरं नराणां संसारसंज्ञं सहसा निगहूणन् | अस्माकमाविष्कृतमुक्तिवर्मा, श्रीवर्धमानः शिवमातनोतु ॥ १ ॥