________________
श्रीपार्श्वजिनस्तोत्रम्
गीर्वाणद्रमकामधेनुमणयस्तस्थाङ्गणे रङ्गिणो, देवा दानत्रमानवा सविनयं तस्य हितध्याथिनः । लक्ष्मीस्तस्य वशा बशेव गुणिनां ब्रह्माण्डसंस्थायिनी, श्रीचिन्तामणिपार्श्वनाथमनिशं संस्तोति यो ध्यायति।।१०॥ हति मिनपतिपय पापाख्यि यक्षा, प्रशपितदुरितीघः प्रीणितः प्राणिसङ्घः । त्रिभुवनजनवाञ्छा दानचिन्तामणीका, शिवपदतरुबीजं बोधिबीजं ददातु ॥ ११ ।।
श्रीपार्श्वजिनस्तोत्रम् ( शृङ्खलायमकालङ कृतम् )
__ त्रोटक छन्द अमरेश्वरकीर्तितकीर्तिमरं, भरतेश्वरकारितविम्बवरम् । वरवाणिजलौद्धतपापमलं, मलवर्जितदेहमहाधवलम् ।। १ ।। अलगर्वितमोहमहारिहरं, हरकण्ठविनीलशरीररुचम् । रुचिराकृतिहारितविनमत, मतमानसमूहसमय॑महम् ॥२॥ महनीयपदं हतमानमदं, पदनम्रभयङ्करपञ्चमुखम् । मुखदर्पणरोपितपूर्णविधु, विधुरीकृतलोमभुजङ्गगरम् ॥३।। करपल्लवतोलितकोकनदं, नरदेवमहामदनाशकरम् । कृपणासुमतां कृतसौख्यगणं, गणनोज्झितसद्गुणधामपरं ।।४।।