________________
श्रीपार्श्वनाथस्तोत्रम् ध्यायन्ति ये पुनरशेषहपीकसौख्यं, मुक्त्याभवन्तमजरं किमु वच्मि तेषाम् ॥ २० ।। नृत्यद्भिाशुगवनात् सरलैश्च शाखा--, हस्तेमृदङ्गनिनः अतिसौख्यकृद्भिः । भब्धानयं वाले त. पुरस्था, पूजाकते जिन ! समाहयतीव लोकान् ।। २२ ।। चल्गजलाऽनलकरालमृगारिचौर, मातङ्गमारिभुजगाऽमयबन्धनोत्थम् । सर्व भयं यदि विनाशमुपैति देव, ! युष्मत्पदस्मरणतोऽत्र किमद्भुतं तत् ।। २२ ।। स्वस्त्यस्तु देव ! भवते विजितस्मराय, स्वस्त्यस्तु देव ! भवते वरशासनाय । स्वस्त्यस्तु देव ! भवते भवनाशनाय, स्वस्त्यस्तु देव ! भवते परमेश्वराय ।। २३ ।। तुभ्यं नमः शमसुखाऽमृतसागराय, तुभ्यं नमो भुवननीरजभास्कराय । तुभ्यं नमो निहतमोहमहामहाय, तुभ्यं नमो विमलकेवलविग्रहाय ।। २४ ॥ चन्दारुत्रिदशेन्द्रसुन्दरशिरः कोटीरहीरप्रभा, भास्वत्पादषयोजमुज्ज्वललसत्कैवल्यलक्ष्मीगृहम् ।