________________
सिद्धान्तसारः।
५३
हीणं---अस्मिन् ग्रन्थे मया यत्किचिद्धानं प्रतिपादितं भवति तद्भवन्तः, परंतु—पूरयन्तु पूर्ण कृत्वा प्रतिपादयन्तु । कथंभूताः साधवः ? वरसुत्तगेहा-वराणि च तानि सूत्राणि जिनवचनानि तेषां गेहा मन्दिरमायाः । पुनरपि कथंभूताः ? मयमोहचत्ता-मदमोहैस्त्यक्ताः । पुनरपि कथंभूताः ! जिणणाहभत्ता-जिननाथभक्ताः । पुनरपि कयंभूताः ? विरायचित्ता-विगतो रागो यस्मात् तत्, विरागं चित्तं मानसं येषां ते विरागचित्ताः । अनु च किंविशेषणांचिताः ? सिवमगजुत्ता इति, शिवमार्गों, मोक्षमार्गः सम्यग्दर्शनज्ञानचारित्रलक्षणः तेन युक्ताः शिवमार्गयुक्ताः॥७९॥
इति सिद्धान्तसारभाष्यम् ।*
*अस्मादग्ने पाठोऽयं स्वस्तिश्री शके १६९३ खरनाम सेवत्सरे आश्विनमासे शुनपक्षे बिदियायां (द्वितीयायां ) तिथौँ गुरुवासरे श्रीसदलगी श्री-अनन्त. तीर्थकरचैत्यालये श्रीसुमतिचन्द्रस्वामिनांतच्छिध्यसावतापंडित श्रीरत्नत्रयज्ञापनार्थ लिखितं ।