________________
सिद्धान्तसारः।
आहारकद्विकोना द्विषु द्वाविंशतिः हास्यपटेन पंढस्त्रीपुंना दिविलीमाः कोश का मीहि ॥ आहारदुगूणा दुसु बावीस--दुसु-इति, अप्रमत्तापूर्वकरणयोयो - णस्थानयोः प्रमत्तोक्ताश्चतुर्विंशतिप्रत्यया ये ते आहारदुगूण-आहारकाहारकमिश्रद्वयोनाः, बावीसं-द्वाविंशतिप्रत्ययाः स्युः। ते के चेदुयते संज्वलनं ४ नोकषायाः ९ मनोवचनयोगाः ८ औदारिकाययोगः १ एवं २२ द्वाविंशतिः। हे शिष्य ! नवमं गुणस्थानं जानीहि । हासेल्यादि हास्यरत्यरतिशोकमयजुगुप्साषटकेन हीनं ३ कोऽर्थः । नवभेऽनिवृत्तिकरणगुणस्थाने पूर्वोक्ता द्वाविंशतिप्रत्यया हास्यादिषट्कहीनाः सन्तः घोडश आत्रका भवन्ति । ते किनामान: ? वेदत्रयः ३ संज्वलनचतुष्कं ४ मनोवचनयोगा अष्टौ औदारिककाययोगश्चैक एवं पोडश आस्वा अनिवृत्तिकरणस्थाने भवन्तीत्यर्थः । हे विनेय ! क्रमेण अनुक्रमेण, दसं जाण–दशमगुणस्थानं विद्धि । हे स्वामिन् । दशमं गुणस्थानं कीदृशं वेद्मि तत्र कति प्रत्यया संभवन्तीति शिष्यप्रश्नाद्गुरुराह-दस सुहमे इत्युत्तरगाथापदेन सम्बन्धः । ते दश के ? अनिवृत्तिकरणोक्ताः षोडश, संदित्थी'कोहाइविहींणा-इति, पंढस्त्रीपुंवेदत्रयसंज्वलनक्रोधमानमायात्रिकहीनाः सन्तः दश । अथ च व्यक्तिः-सूक्ष्मसाम्परायदशमे अष्टौ मनोवचनयोगा औदारिककाययोगसंज्वलनलोभौ द्वात्रिति दश ७६।।
दस सुहमे वि य दुसुणक सत्त सजोगिम्मि पचया इंति। पञ्चयहीणमणूर्ण अजोगिठाणं सया वैदे ॥ ७७ ।।
दश सूक्ष्मे ऽपि च द्वयोः नव सप्त सयोगे प्रत्यया भवन्ति ।
प्रत्ययहीनमन्यूनं अयोगिस्थानं सदा वन्दे ॥ दस सुहमे इति पदस्य ब्याख्यान पूर्वगाथायां कृतं, अवि य..• अपि च, दुसु-दूयोः एकादशे उपशान्तकमाये द्वादशे क्षीणकपायगुण