________________
१०
सिमान्तसारादिसं.
पदमजमजुम्मे—प्रथमयमयुग्मे सामायिकसयमे छेदोपस्थापनासंयमे च, चउघीसा-~-चतुविशतिप्रत्यया भवन्ति | के ते ? उब्धि-वैकियिकतन्मिश्रद्वयौदारिकमिश्रकामगकैश्च चतुर्भिहाना अन्थे, एयदसजोया --अष्टौ मनोवचनयोगा औदारिककाययोमाहारकाहारकमिश्नकाययोगाश्चेति त्रयः समुदिता एकादशयोगाः। संजाल--संज्वलनक्रोधमानमाया. लोभाश्चत्वारः । गोकसाया—हास्यादिनवनोकषाया एवं चतुर्विंशतिः ॥ ५९ ॥
परिहारे आहारयदुगरहिया ते हवंति वावीसं । संजलणलोहमादिमणवजोगा दसय हुँति सुहुमे य ॥६० ॥
परिहारे आहारकद्विकरहितास्ते भवन्ति द्वाविंशतिः ।
संज्वलनलोभ आदिममवयोगा दश भवन्ति सूक्ष्मे च ।। परिहारेत्यादि । परिहारविशुद्धिसंयमे, आहारयदुगरहिया-आहारकाहारकमिश्नद्वयरहितास्ते पूर्वोक्ता: सामायिकच्छेदोपस्थापनयोः कथिता द्वार्विशतिः प्रत्यया भवन्ति । अथ व्यक्तिः-अष्टमनोवचनयोगीदारिकसंज्वलनचतुष्कहास्यादिनवेति द्वाविंशतिः प्रत्ययाः परिहारसंयमे भवन्तीत्यर्थः । संजलणेत्यादि। मुहमे य–च पुनः सूक्ष्मसाम्परायसंयमे, दसय हुँतिदश प्रत्ययाः स्युः । ते के ? एकः संघलनलोभ आदिमनवयोगा एवं दश ॥ ६ ॥
ओरालमिस्सकम्मइयसंजुया लोहहीण जहखादे । णवजोय णोकसाया अदृतकसाय देसजमे ॥ ६१ ॥
औदारिकमिश्रकामणसंयुता लोभहींना यथाख्याते । नवयोगा नोकषाया अष्टान्तकषाया देशयमे ।। जहखादे--यथाख्यातसंयमे सूक्ष्म साम्परायोक्ता ये दश ते, ओराल मिस्सेत्यादि-औदारिकमिश्रकायकार्मणकायाम्यां द्वाभ्यां संयुक्ता द्वादश