________________
३२
सिद्धान्तसारादिसंग्रहेभवन्ति । ते के ? अप्ठौ मनोवचनयोगा औदारिककाययोग आहारककाययोगस्तमिश्रकाययोगश्चेति त्रय एष एकादश योगाः । सत्तसु णवसप्तसु गुणस्थानेषु पंचमे देशत्रिरते सप्तमेऽप्रमत्ते अष्टमेऽपूर्वकरणे नवमेऽनिवृत्तिकरणे दशमे सूक्ष्म साम्पराये एकादशे उपशान्तकपाये द्वा. दशे क्षीणकषाये एवं एतेषु कथितेषु सप्तगुणस्थानेषु नव योगाः स्युः। ते के ? अष्टौ मनोवचनयोगा औदारिककाययोगश्चैक एवं नव | सत्त सयोगे-सयोगकेवलिनि सप्त योगा भवन्ति । ते के ? सत्यमनोयोगोऽनुभयमनोयोगः सत्यवचनयोगोऽनुभयवचनयोग औदारिककाययोमानन्मिनकारयोगः कर्मणाय रागोग इति सप्त योगा। अयोगिनि चतुदशगुणस्थाने शून्यं योगाभावः ॥ ४६ ॥
इति गुणस्थानेषु योगा निरूपिताः ।
अथ चतुर्दशगुणस्थानेषु द्वादशोपयोगा वर्ण्यन्ते;पढमदुगे पण पणयं मिस्सा मिस्से तदो दुगे छक्कं । सत्तुवओगा सत्तसु दो जोगि अजोगिगुणठाणे ॥४७॥
प्रथमद्विके पंच पंचक मिश्रा मिश्रे ततो द्विके षट्क ।
सप्तोपयोगा: सप्तसु द्वौ योग्ययोगिगुणस्थाने । पढमदुगे--प्रथमावके मिथ्यात्वसासादनगुणस्थाने पणपणयं-पंच पंच उपयोगा भवन्ति । ते के ? कुमतिकुश्रुतविभगज्ञानोपयोगास्त्रयः चक्षुरचक्षुर्दर्शनीपथागौ द्वौ एवं पंच | मिस्सा मिस्से तदो दुगे छक्कंमिश्रगुणस्थाने तृतीये, तदो---इति, ततो मिश्रगुणस्थानात्, दुगे-हात, अविरते चतुर्थगुणस्थाने देशविरतगुणस्थाने पंचभे छक्क—षडुपयोगा भवन्ति । के ते ? मतिश्रुतावधिज्ञानोपयोगास्त्रयः चक्षुरचक्षुरवधिदर्श