________________
सिद्धान्त सारादिसंग्रहे
न्द्रियचतुरिन्द्रियपं चीन्द्रेयासहिपर्याप्तेषु चतुःस्थानेषु एकैकस्य योगस्य पुनरप्यन्यस्यैकस्य योगस्य संयोग क्रियते एवं द्वयं स्यात् । कोऽर्थ ? हीन्द्रियादिपर्याप्तेषु चतुःस्थानेषु औदारिककाययोगानुभयवचनयोगों हो भवत इत्यर्थः । विहीणा पंचेन्द्रियपर्याप्तेषु द्वादशयोगा भवन्तीति कथितं तत्कथं योगास्तु पंचदश वर्तन्ते ? ते योगाः, विहीणा द्वाभ्या--- मौदारिक मिश्रका यवै क्रियिक मिश्रकायाम्यां हीनाः क्रियन्ते । भवांतरगईसु कम्मइओ इति वचनात् कार्मणकायेन विना अन्ये द्वादशयोगाः पंचेन्द्रियसंज्ञिपर्याप्त केषु भवन्तीत्यर्थः ॥ ४३ ॥ ४४ ॥
इति जीवसमासेषु योगा उपन्यस्ताः ।
३०
अथ चतुर्दशजीवसमासेषु यथासंभवमुपयोगा लिख्यन्ते;कुमइदुगा अचक्खुतिय दससु दुगे चदु हवंति चक्खुजुदा । सणिअपुणे पुणे सग दस जीवेसु उवओगा ॥ ४५ ॥
कुमतिद्विको अचक्षुः त्रयः दशसु द्विके चत्वारो भवन्ति । चक्षुर्युताः सस्यपर्याप्त पर्याप्त सप्त दश जीवषु उपयोगाः ॥ कुमइदुगा अक्खुतिय दसमु--- इति, दशसु जीवसमासेषु कुमतिकुश्रुतज्ञानोपयोगी द्वौ अचक्षुर्दर्शनोपयोगक एते त्रय उपयोगा भवन्ति । ते दशजीवसमासाः के ये त्रय उपयोगा जायन्ते तदाह-एकेन्द्रियसूक्ष्मापर्याप्तः, एकेन्द्रियसूक्ष्मं पर्याप्तः, एकेन्द्रियवादरापर्याप्तः, एकेन्द्रियत्रादरपर्याप्तः, द्वीन्द्रियापर्यासः द्वीन्द्रियपर्याप्तः, त्रीन्द्रिया पर्याप्तः, त्रीन्द्रियप र्याप्तः, चतुरिन्द्रियापर्याप्तः, पंचेन्द्रियासंज्ञिजीवापर्याप्त: । एतेषु दशसु जीवसमासेषु कुमतिकुश्रुतज्ञानोपयोगी द्वौ अन्चक्षुर्दर्शनोपयोगश्चैते त्रयो १ पंचेन्द्रियाद्वियाहिपर्याप्तेषु इति पाठः पुस्तके |