SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारः। औदारिकामिकाययोग एको भवति । एवं नवसु जीवसमासस्थानेषु योग एको भवति । एवं चतुर्षु-जीवसमासेषु द्वौ योगौ भवत इति प्रोक्तं तर्हि चत्वारो जीवसमासाः के तत्र द्वौ योगी को इत्याशंकायामाह-दीन्द्रियपर्याप्त औदारिककाययोगानुभयवचमयोगौ भवतः । त्रीन्द्रियपर्याप्त काले औदारिककाययोगानुभयवचनयोगौ स्तः । चतुरिन्द्रियपर्याप्ते औदारिककाययोगानुभयवचनयोगों वर्तेते । पंचेन्द्रियासंझिपर्याप्ते औदारिककाय-- योगानुभयवचनयोगौ संभवतः । इति चतुर्दा जीवसमासेषु द्वौ द्वौ योगी प्ररूपिता । एकस्मिन् जीवसमासे द्वादशयोगा भवन्तीति पूर्वगाथायां सूचितं तर्हि एको जीवसमासः कः तत्र द्वादशयोगाः के इत्याह---पंचेन्द्रियसंज्ञिपर्याप्तजीवसमासे अष्टौ मनोवचनयोगा औदारिककाययोग"वक्रियिककाययोगाहारककाययोगाहारकमिश्रकाययोगाश्चत्वारः,एवं द्वादशयोगा; पंचेन्द्रियसंज्ञिपर्याप्तकाले संभवन्तीत्यर्थः । इत्येकास्मन् जीवसमासे द्वादशयोगा निरूपिताः । तम्भवगईसु एदे-इति, तेषामेकेन्द्रियसूक्ष्मापर्याप्तादीनी जीवानां भवप्राप्तेषु, ऐदे---इति, एते एको द्वौ द्वादश योगा भवन्ति । भक्तरगईसु कम्मइओ-कार्मणको योगः स भवान्तरगतिषु । प्रकृताद्भवादन्यो भवो भवान्तरं तत्र गतयो गमनानि. भवान्तरगतिषु भवान्तरगमनेषु कार्मणकाययोगो भवतीत्यर्थः । सत्तम पुण्णेसु हवे औरालिय-सप्तसु जीवसमासेषु पर्याप्तेषु औदारिककोययोगो भवति । मिस्सयं अपुण्णेसु-इति, अपर्याप्तेषु सप्ततु एकेन्द्रियसूक्ष्मबादरद्वित्रिचतुःपंचेन्द्रियसंश्यसंज्ञिजीवेषु अपर्याप्तकालेषु सप्तस्थानेषु, मिस्सयं-औदारिकमिश्रकायो भवेत् । इगि इगि जोग-इनि,न्द्रियत्री. १ यदा मनुष्यतियंग्गता जीवाः प्राप्नुवान्त तदा औदारिकामेश्रः संभवति । यदा नरकदेवगती प्राप्नुवन्ति तदा चैकियिकमित्रकारः संभवति । २ देवनारकापेश्या वैक्रियिकयोगोऽपि । ३ अपि पंचेदियमंत्रिषु पूर्ववष्यवस्था ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy