________________
सिद्धान्तसारः ।
सुहमे--- इति, सूक्ष्मसाम्पराये चतुर्थे संयमे, सुहम- इति सूक्ष्मसाम्परायनाम दशमं एक गुणस्थानं भवति । अंतिमचत्तार जहखादे-इति, यथाख्याते पंचमसंयमे अन्तिमचत्वारि गुणस्थानानि भवन्ति | तानि कानि किन्नामानि चेत् । उपशान्तकषायक्षाणकवायसयोगायोगकेवलिनामानि ज्ञेयानि । चरियाचरिए इक्क पंचमयं-चरिताचरिते संयतासंयते प्रष्टे संयमे, इक पंचमय --इति, पंचमं देशचिरताख्यं भवति । असंजमे चउरो---असंयते सप्तमे मिथ्यात्वादिचतुर्थगुणस्थानानि चत्वारि भवन्ति । इति संयममार्गणा पूर्णा ॥ १७ ॥
वारस चक्खुद्गे णव अवहीए दुण्णि केवलालोए । किण्हादितिए चउरो तेजापउमासु सत्तगुणा ॥ १८ ।।
द्वादश चक्षुकि नव अवौ केवलालोके । कृष्णादिनिके चत्वारि तेजःपद्मयोः सप्तगुणाः ।। बारस चाखुदुर्ग-~-इति, चक्षु ये चक्षुर्दर्शनेऽचक्षुर्दर्शने च मिथ्यात्वादीनि क्षीणकषायपर्यन्तानि द्वादश गुणस्थानानि स्युः । णव अवहीए-अवधिदर्शने अविरतप्रतिक्षीणकपायात्रसानानि नत्रगुस्थानानि भवन्ति। दुणि केवलालोए केवलालोके केत्रलदर्शने, दुण्णिसयोगायोगकेवलिगुणस्थानद्वयं स्यात् । इति दर्शनमार्गणा । किण्हादितिए चउरो-कृष्णादित्रिके चउरो-मिथ्यात्वसासादनमिश्रावित्यभिधानानि गुणस्थानानि चत्वारि भवन्ति । तेजापउमासु---पीतपालेश्ययोईयोः, सत्तगुणा-मिथ्यात्वादीन्यप्रमत्तान्तानि सप्त भवन्ति ॥१८॥ सियलेस्साए तेरस भव्वे सव्वे अभव्यए मिच्छे । इगिदह चदु अड खाइयतिए तहणेसु णियइक ॥ ११॥ १-२ 'एक्क' इति पुस्तके पाठः ।