SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंग्रहे कोहतिए णम-क्रोधत्रिके क्रोधमानमायासु मिथ्यात्वादीन्यनिवृत्तिकरणपर्यन्तानि गुणस्थानानि भवन्ति । दसय तह लोहे--तथा लोभे मिथ्यात्वप्रतिसूक्ष्मसाम्परायपर्यन्तं गुणस्थानदशकं भवति । इति कषायमार्गणा पूर्णा । अण्णाणतिए दो-अज्ञानत्रिके द्वे गुणस्थाने, कुमतिकुश्रुतकवधिषु त्रिषु प्रत्येक मिथ्यात्वसासादनगुणस्थाने द्वे भवत: । मइतिए घउत्थादिणव चेव---मतित्रिके मतिश्रुतावधिज्ञानेषु चतुर्थादिनत्र चैव अविरतादिक्षीणकषायपर्यन्तानि नवगुणस्थानानि भवन्ति ॥ १५ ॥ सग मणपज्जे केवलणाणे जोगदुर्ग पमत्तादी। चदु सामाइयजुयले पमत्तजुयलं च परिहारे ।। १६ ।। सप्त मनःपर्यथे केवलज्ञाने योगिद्विकं प्रमत्तादीनि | चत्वारि सामायिकयुगले प्रमत्तयुगलं च परिहारे ।। सग मणपज्जे-मणपज्जे-इति, मनापर्ययज्ञाने,सग-इति,सप्त गुणस्थानानि स्युः । तानि कानि चेदुच्यते प्रमत्तादिक्षीणकषायपर्यन्तानि सप्त भवन्ति । केवलणाणे जोगदुर्ग-केवलज्ञाने योगद्विक सयोगायोगकेवलिगुणस्थानद्वयं भवति । इति ज्ञानमार्गणा । पमत्तादी बदु सामाइयजुयले–सामायिकयुगले सामायिकच्छेदोपस्थापनद्वयोः प्रमत्तायनिवृत्तिकरणगुणस्थानपर्यन्तानि चत्वारि भवन्ति । पमत्तजुयलं च परिहारेपरिहारविशुद्धिसंयमे तृतीये प्रमत्ताप्रमत्तगुणस्थानद्वयं भवति ॥ १६ ॥ सुहमे सुहम अंतिमचत्तारि हवंति जहखादे । चरियाचरिए इक्कं पंचमयं असंजमे चउरो ॥ १७ ॥ सूक्ष्मे सूक्ष्म अन्तिमचत्वारि भवन्ति यथाख्याते । चरिताचरिते एक पंचमकं असंयमे चत्वारि ।।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy