SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ सारसमुच्चयः । inner शीलवतजले स्नातुं शुद्धिरस्य शरीरिणः । न तु स्नातस्य तीर्थेषु सर्वेष्वपि महीतले ॥३१२॥ रागादिवर्जितं स्नानं ये कुर्वन्ति दयापराः । तेषां निर्मलता योगैने च स्नातस्य वारिणा ॥३१३॥ आत्मानं स्नापयेन्नित्यं ज्ञाननीरेण चारुणा। . येन निर्मलतां याति जीवो जन्मान्तरेष्वयि ॥३१४|| सर्वाशुचिमये काये शुक्रशोणितसंभवे । शुचित्वं येऽभिवाञ्छन्ति नष्टास्ते जडचेतसः ।।३१५॥ औदारिकशरीरेशस्मिन् सप्तधातुमयेऽशुचौ । शुचित्वं येऽभिमन्यन्ते पशवस्तेन मानवः ॥३१६॥ सत्येन शुद्धयते वाणी मनो ज्ञानेन शुद्धयति । गुमशुश्रूषया कायः शुद्धिरंप सनातनः ।।३१७॥ स्वर्गमोक्षोचितं नृत्वं मूडैर्विषयलालसैः । कृतं स्वल्पसुखस्याथै तियङ्नरकभाजनम् ॥३१८|| सामग्री प्राप्य सम्पूर्णा यो विजेतुं निरुद्यमः । विषयारिमहासैन्यं तस्य जन्मनिरर्थकम् ॥३१०॥ निरवा वदेद्वाक्यं मधुरं हितमर्थवत् । प्राणिना चेतसोऽल्हादि मिथ्यावादेबहिष्कृतम् ॥३२०॥ प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात्तदेव वक्तव्यं किं वाक्येऽपि दरिद्रता ॥३२१॥ व्रतं शीलतपोदानं संयमोऽर्हत्पूजनम् । दुःखविच्छित्तये सर्व प्रोक्तमतन्न संशयः ॥३२२॥ १ योगे क. योग्ये ख.। २ वादि क ख,।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy