SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ -२५४ सिद्धान्तसारादिसंग्रहे आत्माधीनं तु यत्सौख्यं तत्सौख्यं वर्णितं बुधैः । पराधीनं तु यत्सौख्यं दुःखमेव न तत्सुखं ॥३०१॥ पराधीनं सुखं कष्टं राज्ञामपि महौजसां। तस्मादेतच समालोच्य आत्मायत्तं सुखं कुरु ।। ३०२ ॥ • आत्मायत्तं सुखं लोके परायत्तं न तत्सुखं । एतत् सम्यग्विजानन्तो मुंह्यन्ते मानुपाः कथम् ॥३०३॥ नो संगाज्जायते सौख्यं मोक्षसाधनमुत्तमम् । संगाच्च जायते दुःखं संसारस्य निकन्धनम् ।।३०४।। पूर्वकर्मविपाकेन बाधायां यच्च शोचनम् । तदिदं तु स्वदष्टस्य जरचेडाहिताडनम् ॥ ३०५ ।। अन्यो हि बाधते दुःखं मानसं न विचक्षणे । पवनीयते तूल मेरोः शृङ्ग न जातुवित् ।। ३०६॥ परज्ञानफलं वृत्तं न विभूतिगरीपसी । तथा हि वर्धते कर्म सद्वत्तेन विमुच्यते ॥३०७॥ संवेगः परम कार्य श्रुतस्य गदितं बुधैः । तस्माये धनमिच्छन्ति ते विच्छेत्यमृताद्विपम् ॥ ३०८| श्रुतं वृत्तं शमो बेषां धनं परमदुर्लभम् । ते नरा धनिनः प्रोक्ताः शेषा निधनिनः सदा ॥३०९॥ को वा वृप्ति समायातो भोगैर्दुरितवन्धनः । देवो वा देवराजो वा चक्रांको वा नराधिपः ॥ ३१॥ आत्मा वै सुमहत्तीर्थ यदासौ प्रशमे स्थितः । यदासौ प्रशमो नास्ति ततस्तीर्थनिरर्थकम् ॥३१॥ १ मुच्यन्ते क । जरत् वेन्याहिताडनं ख । २ यथा क. ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy